Friday, August 23, 2019

श्रीकृष्ण संक्षिप्त परिचय स्तोत्रं

श्रीकृष्ण संक्षिप्त परिचय स्तोत्रं
+++++++++++++++++++++++++++++++++++++++++++++++++++++++++++++++

श्रीवत्सांकितं श्रीनिवासं वन्दे श्रियःपतिं।
नारायणं नमस्तेस्तु अवताराणां मूलमूर्तिं॥[१]

देवकीगर्भसंजातं यषोदास्तन्यसुपोषितं।
बालकृष्णमहं वन्दे पूतनादिभिः संहारिणं॥ [२]

गोपालं गोविन्दं वन्दे गोवर्धनगिरिधारिणं।
इन्द्रानुजं इन्दिरारमणं इन्द्रदर्पापहारिणं॥ [३]

वासुदेवमयंसर्वं वन्दे वसुदेवस्य गोप्तारं।
क्लेषनाशकरं कालं कंसचाणूरस्य भोक्तारं॥ [४]

सान्दीपनेः विद्यां गृहीत्वा अहोरात्रैश्चतुष्षस्ट्यां।
आनीतवान् गुरुपुत्रं यमलोकात् दक्षिणायां॥ [५]

रुक्मिणीहृदयराजहंसं वन्दे सत्यभामाप्रियवल्लभं।
अष्टभार्यासमेतं कृष्णं मनसि आश्रयाम्यहं॥[६]

युधिष्ठिरपक्षधारिणं पाण्डवानां हितकारिणं।
अर्जुनस्य प्रियसखं वन्दे कृष्णासंकटवारिणं॥[७]

गीतामृतप्रदं आचार्यं वासुदेवं विश्वगुरुं।
पार्थस्य रथसारथीं वन्दे पाञ्चजन्यसुपूरितं॥ [८]

धर्मक्षेत्रे कुरुक्षेत्रे कृत क्षत्रियाणां सर्वनाशनं।
त्वया हि केवलं क्रियते धर्मस्य संस्थापनं॥ [९]

यदा यदा हि देवी माधवी दुःखेन क्रन्दति।
दशरूपधारिणः नारायणः तदा तदा अवतरति॥[१०]

कृष्णस्य शरणं गत्वा सर्वधर्मान् त्यजाम्यहं।
नारायणं च नरं देवं सदा भक्त्या भजाम्यहं॥ [११]

++++++++++++++++++++++++++++++++++++++++++++
- इति सन्तोषकुमारशर्मणः कृतं श्रीकृष्ण संक्षिप्त परिचय स्तोत्रं संपूर्णं

श्रीकृष्णार्पणमस्तु



Copyright © 2010-2019, by Santosh Kumar Ayalasomayajula.
All Rights Reserved.

No comments:

Post a Comment